महतां चारित्र्यम्

करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम्। हृदि स्वच्छा वृत्तिः श्रुतमधिगतं च श्रवणयोः विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम्॥ एतस्य अन्वयम् अर्थं च पश्यामः। अन्वयक्रमे केचन स्तराः सन्ति। तेषां स्तराणाम् नामानि अधो निर्दिष्टानि। अधुना एकैकं स्तरं गत्वा एतस्य श्लोकस्य मूलम् अर्थं पश्यामः। पदविभागः करे श्लाघ्यः त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयि भुजयोः वीर्यम् अतुलम्। हृदि…

विद्वांसः लक्षणानि

सत्यं तपो ज्ञानमहिंसतां च विद्वत्प्रणामं च सुशीलतां च। एतानि यो धारयते स विद्वान् न तत्र शास्त्राध्ययनं हि कारणम्॥ एतस्य अन्वयम् अर्थं च पश्यामः। अन्वयक्रमे केचन स्तराः सन्ति। तेषां स्तराणाम् नामानि अधो निर्दिष्टानि। अधुना एकैकं स्तरं गत्वा एतस्य श्लोकस्य मूलम् अर्थं पश्यामः। पदविभागः सत्यम् तपः ज्ञानम् अहिंसताम् च विद्वत् प्रणामम् च सुशीलताम् च। एतानि यः धारयते…

श्लाघया एव संस्कृतस्य जीवनं न भवति

विश्वे सामान्यतया श्लाघा उत्तमगुणानां चिह्नम्। यत्र यत्र श्लाघा श्रुता लिखिता वा तत्र तत्र उत्तमगुणाः अपि लभ्यन्ते। उदाहरणाय, श्लाघा भवति वीराणाम्। केभ्यश्चित् दिनेभ्यः पूर्वं एकाम् आकर्षकां कथाम् अन्तर्जाले पठितवान् – आष्ट्रेलियादेशे कश्चन त्रयोदशवर्शीयः किशोरः जनैः श्लाघितः। तस्य माता सहोदरौ च नौकया यदा गतवन्तः तदा ते उग्रवेलासमन्विते समुद्रे पतित्वा निमज्जितुम् उद्युक्ताः। सः किशोरः झटिति चतिस्रः होराः यावत्…