श्लाघया एव संस्कृतस्य जीवनं न भवति

विश्वे सामान्यतया श्लाघा उत्तमगुणानां चिह्नम्। यत्र यत्र श्लाघा श्रुता लिखिता वा तत्र तत्र उत्तमगुणाः अपि लभ्यन्ते। उदाहरणाय, श्लाघा भवति वीराणाम्। केभ्यश्चित् दिनेभ्यः पूर्वं एकाम् आकर्षकां कथाम् अन्तर्जाले पठितवान् – आष्ट्रेलियादेशे कश्चन त्रयोदशवर्शीयः किशोरः जनैः श्लाघितः। तस्य माता सहोदरौ च नौकया यदा गतवन्तः तदा ते उग्रवेलासमन्विते समुद्रे पतित्वा निमज्जितुम् उद्युक्ताः। सः किशोरः झटिति चतिस्रः होराः यावत् समुद्रं तीर्थ्वा मातुः सहोदरयोः च साहाय्यं कृत्वा तेषां जीवनं रक्षितवान्। किं बहुना, सः होराद्वयं यावत् सुरक्षाप्रावारकं विनैव तरितवान्! यथा वीराणां श्लाघनं तथा जनाः सरलान् निरहङ्कारिणः अपि श्लाघन्ते। हिमाचलप्रदेशे मन्त्री विक्रमादित्यः सिंहः यदा स्वपत्न्या अमरीनकौरसेखोनमहोदयया सह वायुविहाराय अटन् गतवान् तदा तस्य कश्चन भक्तः स्वस्य छायाचित्रं तेन सह इष्टवान्। तदा विक्रमादित्यमहोदयस्य पत्नी मौनं तस्य भक्तस्य दूरवाणीं स्वीकृत्य स्वयमेव चित्रं स्वीकृतवती। अन्यः कश्चन द्रष्टा तस्य दूरवाण्या सर्वं प्रवृत्तं स्वीकृतवान्। अन्तर्जालेऽपि स्थापितवान्। अनन्तरदिने बहवः जनाः अमरीनमहोदयायाः सरलतां निरहङ्कारत्वं च दृष्ट्वा श्लाघापुष्पानि वर्षितवन्तः। पुनः यथा निरहङ्कारत्वस्य श्लाघनं तथैव मानवेषु अनुकम्पा श्लाघिता भवति। आङ्ग्लदेशे काचित् बालिका प्रधानमन्त्रीवर्यस्य कृते पत्त्रं लिखितवती। तस्मिन् पत्त्रे तस्याः तात्पर्यम् एवम् आसीत् – “प्रधानमन्त्रीवर्य, एतस्मिन् देशे बालाः अपि दारिद्र्येण अधिकां पीडाम् अनुभवन्ति। कृपया बालानां दारिद्र्यं नाशयतु।” इति। एतेन पत्त्रेण तस्याः बालिकायाः अनुकम्पाम् अवलोकयन्तः जनाः तां श्लाघितवन्तः। अन्ते सा आङ्ग्लदेशस्य प्रधानमन्त्रिणा सह मिलित्वा स्वपत्त्रं साक्षात् तस्य कृतेऽपि समर्पितवती! अतः एतैः उदाहरणैः स्पष्टं यत् यः श्लाघनम् इच्छति सः प्रथमम् आत्मानं परिष्कृत्य स्वोत्तमगुणान् प्रकटयति इति।

श्लाघा तु उत्तमगुणान् निर्दिशति इति सत्यं चेदपि यः श्लाघते सः सदा परस्य हिताय न करोति। अन्यः आशयः अपि स्यात्। विश्वे राज्यनीतिविषये श्लाघया सह अन्याः आशयाः वारं वारं वर्तन्ते। गतमासे भारतीयजनतादलस्य कश्चन सदस्यः सर्वकारस्य विभागद्वयं प्रशंस्य अवदद् एतौ द्वौ विभागौ एव सम्यक् कार्यं कुरुतः इति। सः श्लाघित्वा अन्यान् विभागान् तिरस्कृतवान्। तथा रष्यदेशस्य राष्ट्रपतिः प्युटिनमहोदयः सिरियादेशस्य नूतनं राष्ट्रपतिं श्लाघितवान्। यद्यपि २०२४तमे वर्षे एषः नूतनः अल्शरामहोदयः प्युटिनमित्रस्य अलस्सदस्य पलायनं कारितवान् तथापि प्रशंसावचनात् तेन सह व्यवहारः प्राचलत्। किं बहुना, अल्शरामहोदयः द्विवारं मोस्कोनगरम् तेन सह मेलितुम् अपि आगतवान्! राज्यनीतेः तन्त्रशास्त्रविश्वं गच्छामः चेत् तत्रापि श्लाघा न एकाकिनी। एन्विडियासंस्थायाः प्रमुखः जेन्सेन्ह्वाङ्गमहोदयः केभ्यश्चिद् दिनेभ्यः पूर्वमेव ताईवानदेशं गतवान्। तत्रत्यैः तन्त्रनिर्मातृभिः सह भूरिभोजनं कृत्वा तान् प्रशंसितवान्। किञ्चित् तान् अधिकान् तन्त्रान् निर्मातुम् अपि प्रेरितवान्! स्पष्टं यत् सः श्लाघायाः निमित्तम् एव अमरिकातः सहस्राधिककिलोमीटर् यावद् उड्डीय तत्र न आगतवान्। अतः एतैः उदाहरणैः लोके श्लाघा न केवलं एकाकी परोपकाराय वा; सा स्वार्थसिद्धयेऽपि उपयोगकरी भवितुम् अर्हति।

तथैव विश्वे बहवः जनाः संस्कृतस्य माहात्म्यं जानन्ति। ते सदा संस्कृतं श्लाघन्ते च। संस्कृतं समग्रस्य विश्वस्य भाषाणां जननी इति तेषां दृढः विश्वासः अपि। सदा एवं वदन्ति – “संस्कृतम् अस्माकं देशस्य सर्वासां भाषाणां माता अस्ति। संस्कृतम् अस्माकं धर्मस्य वेदानां च मूलभाषा। संस्कृतम् अस्माकं स्तोत्रश्लोकशास्त्रादीनां मूलभाषा। संस्कृतम् अस्माकं देशस्य आभूषणम् अतः रक्षणीयम्।” इति। संस्कृतेन लिखितानां ग्रन्थानां ऋषिमुनिकवीनाम् अपि ईदृशाः जनाः श्लाघनं कुर्वन्ति इत्यतः आवलिः प्रायः इतोऽपि दीर्घा भवितुम् अर्हति। किन्तु तेषां महतां पुरुषाणां लिखितेषु अंशेषु विशिष्टतया अवधानम् एव नास्ति जनानाम्। यतः यदा सम्भाषणसमयः आगच्छति ते एव जनाः एकं वाक्यम् अपि संस्कृतेन सम्यक् वक्तुम् न शक्नुवन्ति। अनन्तरं वदन्ति च – “संस्कृतं तु कठिनम्!” इति।

एतस्मात् बहवः उत्तमजनाः प्रमादं कुर्वन्ति। केभ्यश्चिद् दिनेभ्यः पूर्वं मम सहकर्मिणा सह वार्तालापं कुर्वन् आसम्। सः असीत् महान् देवीभक्तः। प्रतिदिनं प्रात:काले सन्ध्यावन्दनादीः विधयः समाप्य दुर्गासप्तशत्याः कांश्चन श्लोकान् पठति स्म। प्रतिवर्षं सः द्वित्रवारं सत्यनारायणपूजाम् अपि वहति स्म। वैदिकपाठञ्च अधीतवान्। सनातनधर्मं संस्कृतं च नितरां आश्लाघत सः। तेन सह कुशलसम्भाषणं यदा आसीत् तदा कालानन्तरं सः किमपि विचित्रम् उक्तवान् – “अहं मम पुत्रं फ्रेञ्चपाठशालायां योजयामि इति चिन्तयामि।” इति। अहं पृष्टवान् – “किमर्थं फ्रेञ्चभाषा?” इति। सः अवदत् -“एतस्मिन् देशे मम पुत्रस्य कृते फ्रेञ्चभाषा उपयोगकरी भवति। अपि च तेषां पाठशालासु उत्तमाः व्यवस्थाः सन्ति।” इति। पुनः अहं कौतूहलेन पृष्टवान् – “किमर्थं तं संस्कृतं न बोधयति भवान्?” इति। सः एवम् उत्तरं दत्तवान् – “संस्कृतं तु कठिनम्।” इति। नितरां स्तब्धः अहं एतत् श्रुत्वा तं निर्निमेषं दृष्टवान्। चिन्तितवाञ्च – “एषः जनः तु संस्कृतेनैव दुर्गासप्तशतीं वेदाञ्च पठति। तस्य पुत्रस्य कृते संस्कृतं किमर्थं न पाठयितुम् इच्छति?” इति।

अन्यदा मम मातृभगिण्या सह वार्तालापः जातः। सापि बहु वारं संस्कृतस्य माहात्म्यं प्रति श्लाघनं कृत्वा उक्तवती च – “एकं दिनम् अहं सर्वान् ग्रन्थान् संस्कृतेन पठितुम् इच्छामि।” इति। कुशलसम्भाषणानन्तरं परिहासाय किञ्चित् संस्कृतेन उक्तवान्। सा तु मां मृत्युसन्निहितः हिरणः इव दृष्ट्वा हसन्ती अवदत् – “अहं यत् त्वम् उक्तवान् तत् सर्वथा न अवगतवती! तमिळभाषया वार्तालापं कुरु।” इति। “भवती किञ्चित् संस्कृतं पठति चेत् किञ्चिद् अवगच्छति एव।” इति अहं उत्तरितवान्। “किन्तु संस्कृतं कठिनं भोः!” इति सा अन्ते स्पष्टतया अवदत्।

पुनः एका छात्रा पाठसमये वारं वारम् एवं वदति स्म – “संस्कृतात् आङ्ग्लभाषया यदि भवान् अर्थं विवृणोति तर्हि अहं पदानां वाक्यानाञ्च अर्थं स्पष्टं ज्ञास्यामि।” इति। अहं प्रत्युत्तरं दत्तवान् – “यदि अहम् एवं करोमि तर्हि संस्कृतस्य प्रयोजनमेव नास्ति। तर्हि आङ्ग्लभाषा एव पाठनीया भवति मया…” इति।

अहं कदाचिद् वदामि – “संस्कृतेन सम्भाषणं करोमि। तावदेव न, अहं मम मात्रा भार्यया सह चापि संस्कृतेन कदाचित् वदामि।” इति। तदा जनाः उत्फुल्लनेत्राभ्यां स्तब्धाः। रात्रौ बुभूक्षया पीडितस्य मूषकान्वेशने मग्नस्य उलूकस्य यथा तथा ते मां पश्यन्ति। इतरे जनाः एवं मां दृष्ट्वा वदेयुः – “सः नितरां श्लाघनीयः विषयः! किन्तु संस्कृतं बहु कठिनम्!” इति।

मम जीवनात् एतानि उदाहरणानि एकः लघ्वांशः एव। किन्तु तैः द्रष्टुं शक्नुमः यत् यथा विश्वे श्लाघा न एकाकिनी तिष्ठति तथैव संस्कृतविषये अधिकांशैः हिन्दुजनैः श्लाघा प्रकटिता भवति। ते प्रायः स्वसंस्कृतेः नाशं न इच्छन्ति। संस्कृतिं दृष्ट्वा प्रायः गर्वेणापि भावयन्ति। उत या पुरातनी संस्कृतिः आसीत् तया ते हिन्दुधर्मस्य प्रचारम् इच्छेयुः। अन्ते हेतुः कोऽपि भवतु नाम किन्तु एतत् चिन्तनं केवलं संस्कृतस्य नाशाय कल्पते न तु अन्यथा।

उल्लेखाः

१. Teenager saves his family. (2026, February 4). Taipei Times, 5. https://www.pressreader.com/taiwan/taipei-times/20260204/page/6

२. Netizens praise humility of Vikramaditya’s wife. (2026, February 2). Hindustan Times (Bathinda), 16. https://www.pressreader.com/india/hindustan-times-bathinda/20260202/page/18

३. Pupils praised for action on poverty. (2026, January 29). Helensburg Advertiser, 9. https://www.pressreader.com/uk/helensburgh-advertiser/20260129/page/9

४. BJP member praises work of Revenue and Labour departments. (2026, January 31). The Hindu Bureau (Bengaluru), 8. https://www.pressreader.com/india/the-hindu-bangalore-9ww1/20260131/page/8

५. Putin praises Syrian President on visit. (2026, January 29). The I Paper, 2. https://www.pressreader.com/uk/the-i-paper/20260129/page/2

६. People’s Dad Huang Pressures Nvidia Suppliers. (2026, February 2). Eswatini Daily News, 11. https://www.pressreader.com/eswatini/eswatini-daily-news-9y77/20260202/page/11

Leave a comment