करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता
मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम्।
हृदि स्वच्छा वृत्तिः श्रुतमधिगतं च श्रवणयोः
विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम्॥
एतस्य अन्वयम् अर्थं च पश्यामः। अन्वयक्रमे केचन स्तराः सन्ति। तेषां स्तराणाम् नामानि अधो निर्दिष्टानि।
- पदविभागः
- सन्धिः
- अन्वयः
- अन्वयार्थः / प्रतिपदार्थः
- तात्पर्यम्
अधुना एकैकं स्तरं गत्वा एतस्य श्लोकस्य मूलम् अर्थं पश्यामः।
पदविभागः
करे श्लाघ्यः त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयि भुजयोः वीर्यम् अतुलम्। हृदि स्वच्छा वृत्तिः श्रुतम् अधिगतम् च श्रवणयोः विना अपि ऐश्वर्येण प्रकृतिमहताम् मणडनम् इदम्॥
सन्धिः
- श्लाघ्यः + त्यागः (विसर्गसन्धिः सकारः)
- भुजयोः + वीर्यम् (विसर्गसन्धिः रेफः)
- अधिगतम् + च (अनुस्वारसन्धिः)
- विना + अपि (सवर्णदीर्घसन्धिः)
- अपि + ऐश्वर्येण (यण्सन्धिः)
- प्रकृतिमहताम् + मणडनम् (अनुस्वारसन्धिः)
अन्वयः
श्लाघ्यः त्यागः करे, गुरुपादप्रणयिता शिरसि, सत्या वाणी मुखे, अतुलम् वीर्यम् भुजयोः विजयि , स्वच्छा वृत्तिः हृदि श्रवणयोः अधिगतम् श्रुतम् च, ऐश्वर्येण विना अपि प्रकृतिमहताम् इदम् मण्डनम् (अस्ति)।
अन्वयार्थः
श्लाघ्यः त्यागः करे – praiseworthy giving in one’s hand, गुरुपादप्रणयिता शिरसि – the teacher’s feet at one’s head, सत्या वाणी मुखे – the sound of truth in one’s mouth, अतुलम् वीर्यम् भुजयोः विजयि – immeasurable courage in one’s arms which bring victory, स्वच्छा वृत्तिः हृदि – clean conscience in one’s heart, अधिगतम् श्रुतम् श्रवणयोः च – and proper understanding/assimilation of that which is heard in one’s ears, ऐश्वर्येण विना अपि – even though without opulence/wealth, प्रकृतिमहताम् इदम् मण्डनम् (अस्ति) – this is the decoration of great persons
तात्पर्यम्
This shloka praises the natural ease with which great souls act as they live and walk in a world that often seems turbulent, even distasteful at times. What are some of the qualities we could imbibe from such people? Well, here are a few hints the shloka gives us: they’re always ready to give (up) things they may hold dear to themselves. They respect their teachers and mentors who have guided them. They aren’t deceitful. They bring immeasurable strength that brings victory with it. Their conscience is often clean, knowing they did their best. Finally, they have a proper understanding of what they’ve learned (or heard), applying this in their lives to serve others better. Though they may not be blessed with material wealth, these are the ornaments of such fabulous characters.
Leave a comment