सत्यं तपो ज्ञानमहिंसतां च विद्वत्प्रणामं च सुशीलतां च।
एतानि यो धारयते स विद्वान् न तत्र शास्त्राध्ययनं हि कारणम्॥
एतस्य अन्वयम् अर्थं च पश्यामः। अन्वयक्रमे केचन स्तराः सन्ति। तेषां स्तराणाम् नामानि अधो निर्दिष्टानि।
- पदविभागः
- सन्धिः
- अन्वयः
- अन्वयार्थः / प्रतिपदार्थः
- तात्पर्यम्
अधुना एकैकं स्तरं गत्वा एतस्य श्लोकस्य मूलम् अर्थं पश्यामः।
पदविभागः
सत्यम् तपः ज्ञानम् अहिंसताम् च विद्वत् प्रणामम् च सुशीलताम् च। एतानि यः धारयते सः विद्वान् न तत्र शास्त्राध्ययनम् हि कारणम्॥
सन्धिः
- सत्यम् + तपः (अनुस्वारसन्धिः)
- तपः + ज्ञानम् (विसर्गसन्धिः उकारः)
- ज्ञानम् + अहिंसताम् (अनुस्वारसन्धिः)
- अहिंसताम् + च (अनुस्वारसन्धिः)
- प्रणामम् + च (अनुस्वारसन्धिः)
- सुशीलताम् + च (अनुस्वारसन्धिः)
- यः + धारयते (विसर्गसन्धिः उकारः)
- सः + विद्वान् (विसर्गसन्धिः लोपः)
- शास्त्राध्ययनम् + हि (अनुस्वारसन्धिः)
अन्वयः
यः सत्यम् तपः ज्ञानम् अहिंसताम् विद्वत्प्रणामम् सुशीलताम् च एतानि धारयते सः विद्ववान्। न तत्र शास्त्राध्ययनम् हि कारणम् (अस्ति)।
अन्वयार्थः
यः – one who, सत्यम् – truth, तपः – endurance of pain, ज्ञानम् – knowledge, अहिंसताम् – minimization of harm or violence against others or self, विद्वत्प्रणामम् – bows down out of respect to other learned persons, सुशीलताम् च – and propriety, good conduct, धारयते – possess or wear, सः विद्ववान् – he is a learned person, न तत्र शास्त्राध्ययनम् – there, it is not the learning of the Shastras or particular subject matter, हि कारणम् – is verily the cause
तात्पर्यम्
This shloka shows us that the causes of a learned person are not merely found in conventional ways: these causes are not a matter of simply attending school or mastering dry, technical subjects for years. A person who possesses truthfulness, endurance of pain, and knowledge; one who thinks of reducing harm or violence done against others or self, respects learned persons, and has good conduct, that is a learned person.
Leave a comment