अन्वयरचनाक्रमः

यदा वयं श्लोकान् पठामः तदा तेषाम् अर्थं ज्ञातुम् इच्छामः। तस्मात् अन्वयः एव श्लोकस्य ज्ञानाय कल्पते। यदा वयं श्लोकं वाक्यरूपेण रचयामः तदा अन्वयः इति उच्यते। एतस्मिन् लेखने वयम् अन्वयरचनायाः क्रमं पश्यामः। एतेन क्रमेन अन्वयः सिद्धः भवति।

अन्वयरचनायाम् केचन स्तराः सन्ति –

  • क्रियापदम् – पठति, लिखति, खेलति, नयति, …
  • कर्तपदस्य कृते प्रश्नः – कः, के / का, काः / किम्, कानि ?
  • कर्तपदस्य कृते प्रश्नः – कः, के / का, काः / किम्, कानि ?

उदाहरणम् यथा – बालकः फलं खादति।

  • क्रियापदम् – खादति
  • कः खादति? – बालकः
  • किम् खादति? – फलम्

उदाहरणम् यथा – छात्रा पाठं पठति।

  • क्रियापदम् – पठति
  • का पठति? – छात्रा
  • कम् पठति? – पाठम्

उदाहरणम् यथा – कर्मकराः कार्यं कुर्वन्ति।

  • क्रियापदम् – कुर्वन्ति
  • के कुर्वन्ति? – कर्मकराः
  • किम् कुर्वन्ति? – कार्यम्

उदाहरणम् यथा – नार्यः सङ्गीतं गायन्ति।

  • क्रियापदम् – गायन्ति
  • काः गायन्ति? – नार्यः (नारी → नार्यः)
  • किम् गायन्ति? – सङ्गीतम्

प्रश्नवाचकशब्दानाम् पुनःस्मरणम्

यथा – कः, के / का, काः / किम्, कानि, तथा अन्याः विभक्तीः अपि पुनः स्मरामः।

पुंल्लिङ्गःस्त्रीलिङ्गःनपुंसकलिङ्गः
विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्एकवचनम्द्विवचनम्बहुवचनम्एकवचनम्द्विवचनम्बहुवचनम्
प्रथमाकःकौकेकाकेकाःकिम्केकानि
द्वितीयाकम्कौकान्काम्केकाःकिम्केकानि
तृतीयाकेनकाभ्याम्कैःकयाकाभ्याम्काभिःकेनकाभ्याम्कैः
चतुर्थीकस्मैकाभ्याम्केभ्यःकस्यैकाभ्याम्काभ्यःकस्मैकाभ्याम्केभ्यः
पञ्चमीकस्मात्काभ्याम्केभ्यःकस्याःकाभ्याम्काभ्यःकस्मात्काभ्याम्केभ्यः
षष्ठीकस्यकयोःकेषाम्कस्याःकयोःकासाम्कस्यकयोःकेषाम्
सप्तमीकस्मिन्कयोःकेषुकस्याम्कयोःकासुकस्मिन्कयोःकेषु

एतै पुनः एकम् उदाहरणम् यथा – रामः लक्षमणेन सह सीतायै अयोध्यायाः फलानि कण्डोलेषु आनयति।

  • क्रियापदम् – आनयति
  • कः आनयति? – रामः
  • कानि आनयति? – फलानि
  • केन सह आनयति? – लक्षमणेन सह
  • कस्यै आनयति? – सीतायै
  • कस्याः आनयति? – अयोध्यायाः
  • केषु आनयति? – कण्डोलेषु

Leave a comment