Indian bride in maroon and gold saree adorned with traditional jewelry inside palace corridor

शीलं परं भूषणम् । Character is the Greatest Ornament

Written by:

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो

ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः।

अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता

सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्॥

पदविभागः

ऐश्वर्यस्य विभूषणम् सुजनता शौर्यस्य वाक्संयमः ज्ञानस्य उपशमः श्रुतस्य विनयः वित्तस्य पात्रे व्ययः। अक्रोधः तपसः क्षमा प्रभवितुः धर्मस्य निर्व्याजता सर्वेषाम् अपि सर्वकारणम् इदम् शीलम् परम् भूषणम्॥

सन्धिः

  • वाक्संयमः + ज्ञानस्य (विसर्गसन्धिः उकारः + गुणसन्धिः)
  • ज्ञानस्य उपशमः (गुणसन्धिः)
  • विनयः + वित्तस्य (विसर्गसन्धिः उकारः + गुणसन्धिः)
  • अक्रोधः + तपसः (विसर्गसन्धिः सकारः)
  • प्रभवितुः + धर्मस्य (विसर्जसन्धिः रेफः)

अन्वयः

ऐश्वर्यस्य विभूषणं सुजनता। शौर्यस्य (विभूषणं) वाक्संयमः। ज्ञानस्य (विभूषणं) उपशमः। श्रुतस्य (विभूषणं) विनयः। वित्तस्य (विभूषणं) पात्रे व्ययः। तपसः (विभूषणं) अक्रोधः। प्रभवितुः (विभूषणं) क्षमा। धर्मस्य (विभूषणं) निर्व्याजता। (यत्) सर्वेषाम् अपि सर्वकारणम् (तत्) इदम् शीलम् परम् भूषणम्।

अन्वयार्थः

ऐश्वर्यस्य विभूषणं सुजनता – the ornament of opulence is kindness, शौर्यस्य (विभूषणं) वाक्संयमः – the ornament of warrior-like courage is the control of one’s speech, ज्ञानस्य (विभूषणं) उपशमः – the ornament of knowledge is inner peace, श्रुतस्य (विभूषणं) विनयः – the ornament of learning is humility, वित्तस्य (विभूषणं) पात्रे व्ययः – the ornament of material wealth is donating to the well-deserved, तपसः (विभूषणं) अक्रोधः – the ornament of penance is the absence of anger, प्रभवितुः (विभूषणं) क्षमा – the ornament of the mighty is mercy, धर्मस्य (विभूषणं) निर्व्याजता – the ornament of religion is honesty, (यत्) सर्वेषाम् अपि सर्वकारणम् – that which is the cause of all these, (तत्) इदम् शीलम् परम् भूषणम् – that is character which is the greatest ornament of all

तात्पर्यम्

एषः श्लोकः शीलस्य महत्त्वं प्रशंसति। सांसारिकजीवनांशान् शीलम् एव परिष्करोति। ऐश्वर्यवित्तौ अहङ्कारं गर्वं च नयतः। शीलं तु तौ परिष्कृत्य सुजनताम् उत्तमे पात्रे व्ययं च जनयति। शौर्यात् प्रभवितुः च पौरुषं क्रूरत्वं च भवतः। किन्तु शीलं तौ अपि परिष्कृत्य वाक्संयमं क्षमां च ददाति। तथैव ज्ञानात् श्रुतात् चापि मानाभिमानौ प्रवर्धेते। त्यक्त्वा एतौ शीलम् उपशमं विनयं च स्थापयति। पुनः तपसः क्रोधः जायेत। परन्तु शीलेन क्रोधः नश्यते। अक्रोधः च दीयते। धर्मात् च आटोपः गर्वप्रदर्शनं च भवेताम्। शीलं तद् सर्वमपि क्षिप्त्वा निर्व्याजताभूषणं धारयति। एतेषु सर्वेषु अंशेषु शीलम् एव मूलं कारणम्। अतः एव शीलं परम् आभूषणम् इति कथ्यते।

This shloka praises the importance of good character. It alone improves all parts of worldly life. Opulence and material wealth bring ego and pride. Good character, though, removes these and brings kindness and proper donation. From a warrior-like courage and might come arrogance and cruelty. Good character removes these and gives control of speech and mercy. Likewise, from knowledge and learning, pride and arrogance grown yet again. These are replaced by inner peace and humility. Once again, penance leads to anger. But good character destroys anger and replaces it with its opposite. Excessive religion leads to pretense. Good character removes this and places the ornament of honesty. In all these parts, good character alone is the root cause. So, it is called the greatest of all ornaments.


Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe to get the latest posts sent to your email.

Leave a Reply

Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe now to keep reading and get access to the full archive.

Continue reading