आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः।
परं परोपकारार्थं यो जीवति स जीवति॥
पदविभागः
आत्मार्थम् जीवलोके अस्मिन् कः न जीवति मानवः। परम् परोपकारार्थम् यः जीवति सः जीवति॥
सन्धिः
- आत्मार्थम् + जीवलोके, परम् + परोपकारार्थम् + यः (अनुस्वारसन्धिः)
- जीवलोके + अस्मिन् (पूर्वरूपसन्धिः)
- कः + न, यः + जीवति (वसर्गसन्धिः उकारः + गुणसन्धिः)
- सः + जीवति (वसर्गसन्धिः लोपः)
अन्वयः
अस्मिन् जीवने कः मानवः आत्मार्थम् न जीवति? परम् यः परोपकारार्थम् जीवति सः जीवति॥
अन्वयार्थः
अस्मिन् जीवने – एतस्मिन् जीवने (in this life), कः मानवः – कः मनुष्यः? (which human being?), आत्मार्थम् – आत्मनः निमित्तम् (for the sake of oneself), न जीवति – न जीवनं करोति (does not live), परम् – किन्तु (but, however), यः – यः (मनुष्यः) (a person who), परोपकारार्थम् – परेषाम् उपकाराय (for the benefit of others), जीवति – जीवनं करोति (lives), सः जीवति – सः (मनुष्यः एव) जीवनं करोति (that person alone actually lives)
तात्पर्यम्
अस्मिन् सुभाषिते सुभाषितकारः अस्मान् सार्थकं जीवनं प्रति बोधयति। संसारे सर्वे मानवाः स्व स्व आत्मनः निमित्तम् जीवन्ति। एतत् तु सामान्यम् तत्त्वम् एव। किन्तु यः जनः स्वार्थं परित्यज्य अन्येषां साहाय्यं करोति, सः एव अर्थपूर्णं जीवनं जीवति।
In this subhāṣitam, the author imparts some wisdom on a meaningful life. In life, everyone is concerned with their own well-being; they naturally live for themselves. This is indeed an ordinary truth. But, one who let’s go of one’s own selfish motives and helps others, he or she alone lives a life worth living.


Leave a Reply