प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः
प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः।
अनुत्सेको लक्ष्म्यां निरभिभवसाराः परकथाः
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्॥
पदविभागः
प्रदानम् प्रच्छन्नम् गृहम् उपगते सम्भ्रमविधिः प्रियम् कृत्वा मौनम् सदसि कथनम् च अपि उपकृतेः। अनुत्सेकः लक्ष्म्याम् निरभिभवसाराः परकथाः सताम् केन उद्दिष्टम् विषमम् असिधाराव्रतम् इदम्॥
सन्धिः
- प्रदानम् + प्रच्छन्नम् + गृहम्, प्रियम् + कृत्वा, मौनम् + सदसि, कथनम् + च, लक्ष्म्याम् + निरभिभवसाराः, सताम् + केन, उद्दिष्टम् + विषमम् (अनुस्वारसन्धिः)
- च अपि (सवर्णदीर्घसन्धिः)
- अपि + उपकृतेः (यण्सन्धिः)
- अनुत्सेकः + लक्ष्म्याम् (विसर्गसन्धिः उकारः + गुणसन्धिः)
- केन + उद्दिष्टम् (गुणसन्धिः)
अन्वयः
प्रच्छन्नं प्रदानम्, गृहम् उपगते सम्भ्रमविधिः, प्रियम् कृत्वा मौनम्, सदसि उपकृतेः कथनं च अपि। लक्ष्म्याम् अनुत्सेकः, निरभिभवसाराः परकथाः (च)। इदम् विषमम् असिधाराव्रतम् सताम् केन उद्दिष्टम्?
अन्वयार्थः
प्रच्छन्नं प्रदानम् – one who donates in secret, गृहम् उपगते सम्भ्रमविधिः – one who welcomes guests and treats them well, प्रियम् कृत्वा मौनम् – doing a good deed and keeping quiet (not boasting about it), सदसि उपकृतेः कथनं च अपि – in an assembly, speaking well of favours done by another, लक्ष्म्याम् अनुत्सेकः – being discreet about one’s wealth, निरभिभवसाराः परकथाः (च) – speaking only of others’ virtues (not criticizing them for their vices), इदम् विषमम् असिधाराव्रतम् – this admirable and extremely difficult (like standing on the sharp edge of a sword) vows, सताम् केन उद्दिष्टम्? – who taught such virtuous people?
तात्पर्यम्
एतेन सुभाषितेन सज्जनानां दुर्लभं चारित्र्यं जानीमहे – ते यदा दानं कुर्वन्ति तदा सभायां न प्रकाशयन्ति। गृहं यदा अथितयः आगच्छन्ति तदा सन्तोषेण तान् तुष्यन्ति। किमपि प्रियं कार्यं कृत्वा तत् प्रति न गर्वेण वदन्ति; मौनम् तिष्ठन्ति। अन्ये जनाः तेषां कृते सम्यक् कार्यं कुर्वन्ति चेत् ते तान् जनान् समाजे प्रशंसन्ति। स्वधनविषये अपि ते वार्तां न प्रकटयन्ति। अन्येषां दोषान् परित्यज्य गुणान् एव ते वदन्ति च। अन्ते सुभाषितकारः पृच्छति – गुणवत्सु एतेषु सज्जनेषु सत्सु कः एतान् सज्जनान् पाठितवान्? इति।
This subhāṣitam speaks of the difficult-to-abide-by conduct of virtuous people – when they donate, they do so in secret. When guests come home, they please them joyfully. When they do a good deed, they don’t show-off about it; they keep silent afterward. When other people do a good deed for them, they praise them in public. They are discreet about their wealth. When speaking of others, they only highlight their good qualities, forgetting the bad ones. In the end, the author of this subhāṣitam asks – when such virtuous people exist (naturally), who in the world taught them how to be this way?




Leave a Reply