Arjuna bowing with folded hands to Krishna standing beside a golden chariot on a battlefield at sunset

श्रीमद्भगवद्गीता प्रथमोऽध्यायस्य अन्वयरचनाक्रमः – १६ श्लोकः। Shloka Analysis Verse 16

Written by:

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्।

कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे॥

पदविभागः

यावत् एतान् निरीक्षे अहम् योद्धुकामान् अवस्थितान्। कैः मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे॥

सन्धिः

  • यावत् + एतान् (जश्त्वसन्धिः)
  • निरीक्षे + अहम् (पूर्वरूपसन्धिः)
  • कैः + मया (विसर्गसन्धिः रेफः)

अन्वयः

वाक्यविश्लेषणम्

विशेषः – “यावद्” इति शब्दः पूर्वतनश्लोकेन सह योजितः। अतः एतस्मिन् श्लोके सः शब्दः निष्कासितः।

क्रियापदम्कः, के?कम्, कान्?केन, कैः?कस्मै, केभ्यः?कस्मात्, केभ्यः?कुत्र, कस्मिन्, केषु?अव्ययम्
निरीक्षेअहम्अवस्थितान् योद्धुकामान् एतान्
योद्धव्यम् (तव्यप्रत्ययान्तः)मया, कैः सहअस्मिन् रणसमुद्यमे(इति)

अन्वयरचना

क्रियापदम् – निरीक्षे

कः निरीक्षे? – अहम्

कान् निरीक्षे? – एतान्

कीदृशान् एतान्? – योद्धुकामान्

पुनः कीदृशान् एतान्? – अवस्थितान्

किम् इति निरीक्षे? – कैः सह योद्धव्यम् (इति)

क्रियापदम् – योद्धव्यम्

केन योद्धव्यम्? – मया

कुत्र योद्धव्यम्? – रणसमुद्यमे

कीदृशे रणसमुद्यमे? – अस्मिन्

तात्पर्यम्

रथं स्थापयितुम् श्रीभगवतः प्रार्थनां कृत्वा एतस्मिन् श्लोके अर्जुनः प्रथमवारं कौरवपक्षे अन्यान् योधॄन् युद्धकालात् पूर्वं निरीक्षितुम् ऐच्छत् यतः सः निरीक्षया एव शत्रुभिः सह सम्यग् योद्धुम् अशक्नोत्। प्रायः तस्य मनसि कौतूहलम् अपि प्रावर्तत – के के दुर्योधनेन सह योजिताः? कानि कानि अस्त्राणि उपयुञ्जे तेभ्यः? ते मदुपरि कानि शस्त्राणि उपयुजते च? इति। यथा मल्लयुद्धे उत्तमः मल्लः स्वशत्रोः गुणान् दोषान् च परीक्षते तथैव महायोधा अर्जुनः कुरुक्षेत्रेऽपि अकरोत्।

After requesting Shri Krishna to stop the chariot, Arjuna, for the first time, sees the other warriors on the Kaurava side. Before the battle begins, he wants to assess his opponents so he can fight well against the warriors on the other side. Just as a great wrestler in a wrestling match assesses his opponent’s strengths and weaknesses, so does the great warrior, Arjuna, on the battlefield of Kurukshetra.


Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe to get the latest posts sent to your email.

Leave a Reply

Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe now to keep reading and get access to the full archive.

Continue reading