Arjuna bowing with folded hands to Krishna standing beside a golden chariot on a battlefield at sunset

श्रीमद्भगवद्गीता प्रथमोऽध्यायस्य अन्वयरचनाक्रमः – १८ श्लोकः। Shloka Analysis Verse 18

Written by:

एवमुक्तो हृषीकेशो गुडाकेशेन भारत।

सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्॥

उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति।

एतस्य अन्वयम् अर्थं च पश्यामः। अन्वयक्रमे केचन स्तराः सन्ति। तेषां स्तराणाम् नामानि अधो निर्दिष्टानि।

  • पदविभागः – अत्र प्रतिपदस्य विभजनम् भवति।
    • सन्धिविवरणम् अपि पश्यामः।
  • अन्वयः
    • वाक्यविश्लेषणम् – अत्र वाक्यस्य विवरणम् भवति।
    • अन्वयरचना – अन्वयस्य रचनां पश्यामः।
    • अन्वयार्थः – अनन्तरम् वाक्यस्य अर्थं जानीमः।
  • तात्पर्यम् – अन्ते, श्लोकस्य मूलं तात्पर्यम् अथवा आशयं प्राप्नुमः।

अधुना एकैकं स्तरं गत्वा एतस्य श्लोकस्य मूलम् अर्थं पश्यामः।

पदविभागः

एवम् उक्तः हृषीकेशः गुडाकेशेन भारत। सेनयोः उभयोः मध्ये स्थापयित्वा रथोत्तमम्॥ उवाच पार्थ पश्य एतान् समवेतान् कुरून् इति।

सन्धिः

  • उक्तः + हृषीकेशः (विसर्गसन्धिः उकारः + गुणसन्धिः)
  • हृषीकेशः + गुडाकेशेन (विसर्गसन्धिः उकारः + गुणसन्धिः)
  • सेनयोः + उभयोः + मध्ये (विसर्गसन्धिः रेफः)
  • पश्य + एतान् (वृद्धिसन्धिः)

अन्वयः

वाक्यविश्लेषणम्

विशेषः – एषः श्लोकः सार्धैकः श्लोकः यतः अग्रिमस्य श्लोकस्य प्रथमे पादद्वये अपि मुख्यसूचनाः एतस्य श्लोकस्य कृते लाभदायकाः अर्थपूर्णाः च भवेयुः।

क्रियापदम्कः, के?कम्, कान्?केन, कैः?कस्मै, केभ्यः?कस्मात्, केभ्यः?कुत्र, कस्मिन्, केषु?अव्ययम्
उवाचउक्तः हृषीकेशः(पार्थम्)गुडाकेशेनएवम्, इति
स्थापयित्वा (क्त्वाप्रत्ययान्तः)उक्तः हृषीकेशःरथोत्तमम्मध्ये (सेनयोः उभयोः)
पश्य(त्वम्)एतान् समवेतान् कुरून्

अन्वयरचना

भारत!

क्रियापदम् – उवाच

कः उवाच? – हृषीकेशः

कीदृशः हृषीकेशः? – उक्तः

कम् उवाच? – (पार्थम्)

केन उक्तः? – गुडाकेशेन

कथम् उक्तः? – एवम्

किम् कृत्वा उवाच? – स्थापयित्वा

कं स्थापयित्वा? रथोत्तमम्

कुत्र स्थापयित्वा? – मध्ये

कयोः मध्ये? – सेनयोः

कीदृशयोः सेनयोः? – उभयोः

किम् इति उवाच? पार्थ! पश्य इति

कः पश्य? (त्वम्)

कान् पश्य? कुरून्

कीदृशान् कुरून्? समवेतान्

पुनः कीदृशान् कुरून्? एतान्

तात्पर्यम्

पूर्वं गुडाकेशः हृषीकेशं – रथं स्थापय मे सेनयोः उभयोः मध्ये अच्युत इति प्रार्थितवान्। तथैव करोति श्रीकृष्णः एतस्मिन् श्लोके। सर्वस्य अपेक्षया उत्तमं रथम् स्थापयित्वा श्रीकृष्णः अर्जुनं प्रदर्शयति – पश्य त्वम् पार्थ! एतान् सर्वान् तव बान्धवान् कुरून्! इति। तर्हि, एतस्य अर्थः कः? पूर्वम् अर्जुनः सर्वान् कौरवान् वीरान् सम्यक् द्रष्टुम् इष्टवान्। तस्मात् सः पृष्टवान् – कैः सह योद्धव्यम् मया? इति। बाढम्, एतस्मिन् श्लोके तस्य प्रश्नस्य उत्तरं भगवतः मुखात् आगतम् – सर्वे तस्य बान्धवाः एव, न तु अपरिचिताः जनाः, ये त्वया सह योद्धम् अर्हाः। इति।

Prior to this shloka, Arjuna asked Shri Krishna to stop his chariot between the two armies. And Shri Krishna does just that in this shloka. Stopping the greatest of chariots the way Arjuna wants it, he then shows Arjuna who lay in the Kaurava army – look on, Son of Prtha! These are your very kinsmen, the Kurus. So, what’s the meaning of this? Before this, Arjuna wanted to assess the Kaurava army for all the brave warriors he will be fighting soon. So, he asked the question – who has come here to fight with me? Well, the answer to his question is found in this verse, which comes out of the Lord Krishna’s mouth – All those who have come here to fight you are none other than your relatives.


Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe to get the latest posts sent to your email.

Leave a Reply

Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe now to keep reading and get access to the full archive.

Continue reading