Arjuna bowing with folded hands to Krishna standing beside a golden chariot on a battlefield at sunset

श्रीमद्भगवद्गीता प्रथमोऽध्यायस्य अन्वयरचनाक्रमः – २० श्लोकः। Shloka Analysis Verse 20

Written by:

दृष्टवेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्।

सीदन्ति मम गात्राणि मुखं च परिशुष्यति॥

एतस्य अन्वयम् अर्थं च पश्यामः। अन्वयक्रमे केचन स्तराः सन्ति। तेषां स्तराणाम् नामानि अधो निर्दिष्टानि।

  • पदविभागः – अत्र प्रतिपदस्य विभजनम् भवति।
    • सन्धिविवरणम् अपि पश्यामः।
  • अन्वयः
    • वाक्यविश्लेषणम् – अत्र वाक्यस्य विवरणम् भवति।
    • अन्वयरचना – अन्वयस्य रचनां पश्यामः।
    • अन्वयार्थः – अनन्तरम् वाक्यस्य अर्थं जानीमः।
  • तात्पर्यम् – अन्ते, श्लोकस्य मूलं तात्पर्यम् अथवा आशयं प्राप्नुमः।

अधुना एकैकं स्तरं गत्वा एतस्य श्लोकस्य मूलम् अर्थं पश्यामः।

पदविभागः

दृष्ट्वा इमम् स्वजनम् कृष्ण युयुत्सुम् समुपस्थितम्। सीदन्ति मम गात्राणि मुखम् च परिशुष्यति॥

सन्धिः

  • दृष्ट्वा + इमम् (गुणसन्धिः)
  • इमम् + स्वजनम् + कृष्ण (अनुस्वारसन्धिः)
  • युयुत्सुम् + समुपस्थितम् (अनुस्वारसन्धिः)
  • मुखम् + च (अनुस्वारसन्धिः)

अन्वयः

वाक्यविश्लेषणम्

क्रियापदम्किम्, कानि, कः, के?कम्, कान्?कया, काभिः?कस्मै, केभ्यः?कस्मात्, केभ्यः?कुत्र, कस्मिन्, केषु?अव्ययम्
दृष्ट्वा (क्त्वान्तशब्दः)(अहम्)इमम् युयुत्सुम् समुपस्थितम् स्वजनम्
सीदन्तिगात्राणि (मम)
परिशुष्यतिमुखम् (मम)

अन्वयरचना

कृष्ण!

क्रियापदम् – सीदन्ति

कानि सीदन्ति? – गात्राणि

कस्य गात्राणि? – मम

किम् कृत्वा सीदन्ति? – दृष्ट्वा

कः दृष्ट्वा? – अहम् (अध्याहारः)

कम् दृष्ट्वा? – स्वजनम्

कीदृशम् स्वजनम्? – इमम्

पुनः कीदृशम् स्वजनम्? – युयुत्सुम्

पुनः कीदृशम् स्वजनम्? – समुपस्थितम्

क्रियापदम् – परिशुष्यति

किम् च परिशुष्यति? – मुखम् च

कस्य मुखम्? – मम

तात्पर्यम्

पूर्वं सर्वान् बन्धून् दृष्ट्वा अर्जुने पराणां मरणविषये कृपा जाता। कृपया विषादः जातः। अनन्तरम् विषादभावेन सः इमम् श्लोकम् आरभते। तस्मात् विषादात् तस्य शरीरस्य अङ्गेषु निपीडः जायते। तस्य मुखम् अपि मरुभूमिः इव शुष्कम् भवति। किमर्थम् अर्जुनस्य शरीरे एवं घोरः रोगः इव प्रवर्तते? कारणम् विषादेन मनः वशीकृतम्। स्पष्टं यद्यपि अर्जुनः महान् वीरः तथापि मनःप्रभावेन अर्जुनस्य शरीरं निष्क्रियम् इति।

In the prior shloka, Arjuna saw his family members on the enemy’s side filling him with compassion, which soon turned to despair. So, he starts this shloka in a sorrowful tone. His melancholy paralyzes his body and he feels his mouth dried up like a desert. Why is Arjuna’s body affected as if by a serious illness? The cause is his melancholy, which has taken hold of his mind. It is clear that even though Arjuna is a great warrior, his mental state has rendered his body inactive on the battlefield.


Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe to get the latest posts sent to your email.

Leave a Reply

Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe now to keep reading and get access to the full archive.

Continue reading