तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान्।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव॥
पदविभागः
तस्मात् न अर्हाः वयम् हन्तुम् धार्तराष्ट्रान् स्वबान्धवान्। स्वजनम् हि कथम् हत्वा सुखिनः स्याम माधव॥
सन्धिः
- तस्मात् + न(अनुनासिकसन्धिः)
- न + अर्हाः (सवर्णदीर्घसन्धिः)
- वयम् + हन्तुम्, स्वजनम् + हि … (अनुस्वारसन्धिः)
अन्वयः
वाक्यविश्लेषणम्
| क्रियापदम् | सम्बोधनम् | किम्, कानि, कः, के? | किम्, कानि, कम्, कान्? | कस्मै, केभ्यः, कस्य कृते? | कस्मात्, केभ्यः? | प्रश्नवाचकशब्दः | अव्ययम् |
| हन्तुम् (तुमुन्नन्तम्) अर्हाः (स्मः) | – | वयम् | स्वबान्धवान् धार्तराष्ट्रान् | – | तस्मात् | – | न |
| हत्वा | माधव! | (वयम्) | स्वजनम् | – | – | – | हि |
| स्याम | – | सुखिनः (वयम्) | – | – | – | कथम्? | – |
अन्वयरचना
माधव!
क्रियापदम् – न अर्हाः (स्मः)
किं कर्तुम् न अर्हाः स्मः? – हन्तुम्
कस्मात् हन्तुं न अर्हाः? – तस्मात्
के हन्तुं न अर्हाः स्मः? – वयम्
कान् हन्तुं न अर्हाः स्मः? – धार्तराष्ट्रान्
कीदृशान् धार्तराष्ट्रान्? – स्वबान्धवान्
क्रियापदम् – स्याम
के स्याम? वयम् (अध्याहृतम्)
कीदृशः वयम्? – सुखिनः
किं कृत्वा स्याम? – हत्वा
कथं कं हत्वा सुखिनः स्याम? स्वजनम्
तात्पर्यम्
पूर्वस्मिन् श्लोके अर्जुनः उक्तवान् – त्रैलोकराज्यस्य अपि न बान्धवान् हन्मि। अतः किं नु मर्त्यलोके एतस्य राज्यस्य? निश्चयेन मम बान्धवान् न हन्मि इति। अस्मिन् श्लोके अपि सः वदति – वयं कथं धृतराष्ट्रस्य पुत्रान् हन्तुं शक्नुमः? ते अस्माकं बान्धवाः सन्ति। अतः कथं स्वजनान् हत्वा सुखिनः भवितुं शक्नुमः? इति। अर्जुनस्य समस्या परिवारसम्बन्धनाशनम्। किं बहुना, तत् कुरुक्षेत्रे हिंस्ररूपेण अपि भविष्यति इति तस्य चिन्ता।
In the prior shloka, Arjuna said – I will not kill my kinsman even for the lordship over the three worlds. So, I will definitely not kill them for lordship over this small kingdom in the mortal world. In this shloka, he continues – how can we kill dhṛtarāṣṭraḥ’s sons? They are our family members. So, how can one, having killed his own family, ever live happily? Arjuna’s predicament lies in breaking family bonds in a violent way on the battlefield of kurukṣetram.

Leave a Reply