Arjuna bowing with folded hands to Krishna standing beside a golden chariot on a battlefield at sunset

श्रीमद्भगवद्गीता प्रथमोऽध्यायस्य अन्वयरचनाक्रमः – २४ श्लोकः। Shloka Analysis Verse 24

Written by:

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन।

अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते॥

पदविभागः

एतान् न हन्तुम् इच्छामि घ्नतः अपि मधुसूदन। अपि त्रैलोक्यराज्यस्य हेतोः किम् नु महीकृते॥

सन्धिः

  • घ्नतः + अपि (विसर्गसन्धिः उकारः + गुणसन्धिः + पूर्वरूपसन्धिः)

अन्वयः

वाक्यविश्लेषणम्

क्रियापदम्सम्बोधनम्किम्, कानि, कः, के?किम्, कानि, कम्, कान्?कस्मै, केभ्यः, कस्य कृते?कस्मात्, केभ्यः?प्रश्नवाचकशब्दःअव्ययम्
हन्तुम् इच्छामिमधुसूदन!(अहम्)एतान्त्रैलोक्यराज्यस्य हेतोःन, अपि
हन्तुम् इच्छामि(अहम्)महीकृतेकिम्?नु
(अस्मि)(अहम्) घ्नतःअपि

अन्वयरचना

मधुसूदन!

क्रियापदम् – न इच्छामि

कः न इच्छामि? – अहम् (अध्यहृतम्)

किं कर्तुं न इच्छामि? – हन्तुम्

कान् न हन्तुम् इच्छामि? – एतान्

कस्मात् एतान् न हन्तुम् इच्छामि? – हेतोः

कस्य हेतोः? – त्रैलोक्यराज्यस्य

कस्य कृते किं नु हन्तुम् इच्छामि? महीकृते

क्रियापदम् – अस्मि (अध्याहृतम्)

कः अस्मि? अहम् (अध्याहृतम्)

कीदृशः अपि अहम्? घ्नतः अपि

तात्पर्यम्

पूर्वस्मिन् श्लोके अर्जुनः युद्धे स्वजनानां हननविषये चिन्तनम् अनुवर्तितवान्। एतस्मिन् श्लोके सः वदति यत् ते द्वेषिणः तं घ्नन्ति चेद् अपि सः तान् न हन्तुम् इच्छति। न केवलं तद्, सः उपमया विवृणोति – यद्यपि सः त्रैलोकस्य कृते युद्धं करोति तथापि तान् बान्धवान् न हन्ति। अतः एतस्य मर्त्यलोकस्य राज्यस्य कृते किम्? सः कुरुक्षेत्रे निश्चयेन तान् न हन्ति।

In the prior shloka, Arjuna continued talking about killing his kinsmen on the battlefield. In this shloka, he says that even if his enemies kill him, he does not want to kill them. Not only that, he explains through a comparison – even if he has to battle for lordship over the three worlds, he will not kill his kinsmen. Then what of the lordship over this kingdom in the world of mortals? He will definitely not kill them in Kurukshetra.


Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe to get the latest posts sent to your email.

Leave a Reply

Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe now to keep reading and get access to the full archive.

Continue reading