Arjuna bowing with folded hands to Krishna standing beside a golden chariot on a battlefield at sunset

श्रीमद्भगवद्गीता प्रथमोऽध्यायस्य अन्वयरचनाक्रमः – २६ श्लोकः। Shloka Analysis Verse 26

Written by:

अहो बत महत् पापं कर्तुं व्यवसिता वयम्।

यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः॥

पदविभागः

अहो बत महत् पापम् कर्तुम् व्यवसिताः वयम्। यत् राज्यसुखलोभेन हन्तुम् स्वजनम् उद्यताः॥

सन्धिः

  • पापम् + कर्तुम् + व्यवसिता … (अनुस्वारसन्धिः)
  • व्यवसिताः + वयम् (विसर्गसन्धिः लोपः)
  • यत् + राज्यसुखलोभेन (जश्त्वसन्धिः)

अन्वयः

वाक्यविश्लेषणम्

क्रियापदम्किम्, कानि, कः, के?किम्, कानि, कम्, कान्?केन, कैः?अव्ययम्
कर्तुम् (तुमुन्नन्तम्) व्यवसिताः (स्मः)वयम्महत् पापम्अहो, बत
हन्तुम् (तुमुन्नन्तम्) उद्यताः (स्मः)(वयम्)स्वजनम्राज्यसुखलोभेनयत्

अन्वयरचना

अहो! बत!

क्रियापदम् – व्यवसिताः (स्मः)

के व्यवसिताः स्मः? – वयम्

किं कर्तुं व्यवसिताः स्मः? – पापम्

कीदृशं पापम्? – महत्

क्रियापदम् – उद्यताः (स्मः)

के उद्यताः स्मः? – वयम् (अध्याहृतम्)

किं कर्तुं उद्यताः स्मः? – हन्तुम्

कं हन्तुम् उद्यताः स्मः? – स्वजनम्

केन हन्तुम् उद्यताः स्मः? – राज्यसुखलोभेन

तात्पर्यम्

पूर्वस्मिन् श्लोके अर्जुनस्य समस्या कुरुक्षेत्रे हिंस्ररूपत्वेन परिवारसम्बन्धनाशनम् भविष्यति इति। अन्ते कथम् एतत् कृत्वा सुखिनः सः भवेत्? अतः एतस्मिन् श्लोके सः विलपति – “अहो! बत! वयं ईदृशं महत् पापं व्यवसिताः स्मः! राज्यसुखलोभेन वयं स्वजनम् अपि हन्तुम् उद्युक्ताः!” इति। पूर्वेषु श्लोकेषु अर्जुनस्य दुःखं प्रति भगवान्व्यासः लिखितवान् आसीद् किन्तु एतस्मिन् श्लोके एव अर्जुनस्य दुःखं प्रथमवारं साक्षात् स्वभाषणात् प्रकटितम् भवति।

In the prior shloka Arjuna’s problem was that he will have to kill his family members in kurukṣetram. The battle will be a dour, bloody affair indeed. In the end, he asks how he might ever be happy doing something like this. In this shloka, he finally cries out sorrowfully – Oh! Alas! We have started to undertake such a great sin! We are about to kill our family members out of greed for the pleasures of this kingdom!” In prior shlokas, bhagavān vyāsaḥ wrote about Arjuna’s melancholy indirectly; but this is the first shloka where Arjuna’s sorrow is directly shown through his dialogue.


Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe to get the latest posts sent to your email.

Leave a Reply

Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe now to keep reading and get access to the full archive.

Continue reading