Arjuna bowing with folded hands to Krishna standing beside a golden chariot on a battlefield at sunset

श्रीमद्भगवद्गीता प्रथमोऽध्यायस्य अन्वयरचनाक्रमः – १ श्लोकः । Shloka Analysis Verse 1

Written by:

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा।

आचार्यमुपसङ्गम्य राजा वचनम् अब्रवीत्॥

एतस्य अन्वयम् अर्थं च पश्यामः। अन्वयक्रमे केचन स्तराः सन्ति। तेषां स्तराणाम् नामानि अधो निर्दिष्टानि।

  • पदविभागः – अत्र प्रतिपदस्य विभजनम् भवति।
    • सन्धिविवरणम् अपि पश्यामः।
  • अन्वयः
    • वाक्यविश्लेषणम् – अत्र वाक्यस्य विवरणम् भवति।
    • अन्वयरचना – अन्वयस्य रचनां पश्यामः।
    • अन्वयार्थः – अनन्तरम् वाक्यस्य अर्थं जानीमः।
  • तात्पर्यम् – अन्ते, श्लोकस्य मूलं तात्पर्यम् अथवा आशयं प्राप्नुमः।

अधुना एकैकं स्तरं गत्वा एतस्य श्लोकस्य मूलम् अर्थं पश्यामः।

पदविभागः

दृष्ट्वा तु पाण्डवानीकम् व्यूढम् दूर्योधनः तदा। आचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत्॥

सन्धिः

  • दूर्योधनः + तदा (विसर्गसन्धिः सकारः + श्चुत्वसन्धिः)
  • पाण्डवानीकम् + व्यूढम् + दूर्योधनः (अनुस्वारसन्धिः)

अन्वयः

वाक्यविश्लेषणम्

विशेषः –

क्रियापदम्कः, के? (प्रथमाविभक्तिः)कम्, कान्, किम्, कानि? (द्वितीयाविभक्तिः)अव्ययम्
अब्रवीत्राजा दुर्योधनःवचनम्
उपसङ्गम्य (ल्यबन्तम्)(राजा दुर्योधनः)आचार्यम्
दृष्ट्वा (क्त्वान्तम्)राजा दुर्योधनःव्यूढम् पाण्डवानीकम्तु, तदा

अन्वयरचना

क्रियापदम् – अब्रवीत्

कः अब्रवीत्? – दुर्योधनः

कीदृशः दुर्योधनः? – राजा

किम् अब्रवीत्? – वचनम्

किं कृत्वा अब्रवीत्? – उपसङ्गम्य

कम् उपसङ्गम्य? – आचार्यम्

पुनः किं कृत्वा अब्रवीत्? – दृष्ट्वा

किं दृष्ट्वा? – पाण्डवानीकम्

कीदृशं पाण्डवानीकम्? व्यूढम्

कदा दृष्ट्वा? – तदा

तात्पर्यम्

अस्मिन् प्रथमे श्लोके दुर्योधनः महाभारतयुद्धात् पूर्वं पाण्डवानां व्यूढं सैन्यं दृष्ट्वा आचार्यस्य द्रोणस्य समीपे गच्छति। एतस्य श्लोकस्य अनन्तरं दुर्योधनः द्रोणेन सह सम्भाषणं करिष्यति।

In this first shloka, duryodhanaḥ, the eldest son of dhṛtarāṣṭraḥ and main antagonist in the mahābhāratam, surveys the pāṇḍavaḥ’s arranged army before the battle begins. He then approaches his mentor, droṇaḥ. A conversation between duryodhanaḥ and droṇaḥ follows.


Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe to get the latest posts sent to your email.

Leave a Reply

Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe now to keep reading and get access to the full archive.

Continue reading