नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी।
गुणी च गुणरागी च विरलः सरलो जनः॥
पदविभागः
न अगुणी गुणिनम् वेत्ति गुणी गुणिषु मत्सरी। गुणी च गुणरागी च विरलः सरलः जनः॥
सन्धिः
- न + अगुणी (सवर्णदीर्घसन्धिः)
- गुणिनम् + वेत्ति (अनुस्वारसन्धिः)
- सरलः + जनः (वसर्गसन्धिः उकारः + गुणसन्धिः)
अन्वयः
न अगुणी गुणिनम् वेत्ति। गुणी गुणिषु मत्सरी (अस्ति)। गुणी च गुणरागी च विरलः सरलः जनः (अस्ति)॥
अन्वयार्थः
न अगुणी गुणिनम् वेत्ति – one imbued in vices does not know the virtuous, गुणी गुणिषु मत्सरी (अस्ति) – one who is virtuous is jealous of others who may be even more virtuous, गुणी च गुणरागी च – one who is both virtuous and is only fond of virtues, विरलः सरलः जनः (अस्ति) – is a rare and simple person
तात्पर्यम्
एतत् सुभाषितं गुणीनां विषयं वर्णयति। गुणरहिताः जनाः गुणीन् न जानन्ति। यतः ते पापयुक्तं जीवनं जीवन्ति। ये गुणिनः सन्ति ते अपि अन्येभ्यः गुणिभ्यः ईर्ष्यन्ति। यतः ते इतोऽपि पुण्यं कर्तुम् इच्छन्ति। किन्तु सरलः गुणवान् गुणेषु च मग्नवान् मानवः अतीव विरलः लोके।
This subhāṣitam describes the truly virtuous. Those who are beset by vices don’t know the virtuous because their lives are imbued in sin. Those who are virtuous are also guilty of being jealous of those who are even more virtuous than themselves. This is because such virtuous people want to do more good deeds. But, a simple person who is both virtuous and only interested in virtues – that person is truly rare in this world.


Leave a Reply