Hand-painted hanging Diwali lamp with flame and decorated festive background

अधोमुखस्य वह्नेः शिखाः । The Flames of Inverted Fire

Written by:

कदर्थितस्यापि हि धैर्यवृत्तेः

न शक्यते धैर्यगुणः प्रमार्ष्टुम्।

अधोमुखस्यापि कृतस्य वह्नेः

नाधः शिखा यान्ति कदाचिदेव॥

पदविभागः

कदर्थितस्य अपि हि धैर्यवृत्तेः न शक्यते धैर्यगुणः प्रमार्ष्टुम्। अधोमुखस्य अपि कृतस्य वह्नेः न अधः शिखाः यान्ति कदाचिद् एव॥

सन्धिः

  • कदर्थितस्य + अपि, अधोमुखस्य + अपि, न + अधः (सवर्णदीर्घसन्धिः)
  • शिखाः + यान्ति (विसर्गसन्धिः लोपः)
  • कदाचित् + एव (जश्त्वसन्धिः)

अन्वयः

धैर्यवृत्तेः कदर्थितस्य अपि हि धैर्यगुणः प्रमाष्टुम् न शक्यते। कदाचित् एव अधोमुखस्य कृतस्य वह्नेः अपि अधः शिखाः न यान्ति॥

अन्वयार्थः

धैर्यवृत्तेः कदर्थितस्य अपि हि – although a brave person might be insulted or ignored, धैर्यगुणः प्रमाष्टुम् न शक्यते – the quality of courage cannot be wiped out from them, कदाचित् एव अधोमुखस्य कृतस्य वह्नेः अपि – although when fire (in a lamp for example) is placed facing downwards, अधः शिखाः न यान्ति – its flames do not point downwards (they always float up)

तात्पर्यम्

यद्यपि धैर्यवान् मनुष्यः विपत्तिम् अनुभवति तथापि तस्य धैर्यस्य च्युतिः न भवति। शोभनं दृष्टान्तम् – यद्यपि अग्निः अधोमुखः भवति तथापि तस्य शिखाः उपरि एव प्लवन्ते। तन्नाम अग्नेः शिखासु धैर्यवत्सु च गुणयोः नाशः न कदाचिद् भवेत् इति तात्पर्यम्।

Even though a valiant person might be insulted or ignored, their courage isn’t diminished. Here’s a wonderful analogy – even though fire is placed upside down (as in a lamp), its flames always float upwards. The natural qualities of fire and heroes never degrade despite the circumstances.


Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe to get the latest posts sent to your email.

Leave a Reply

Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe now to keep reading and get access to the full archive.

Continue reading