अत्र शूरा महेष्वासा भीमार्जुनसमा युधि।
युयुधानो विराटश्च द्रुपदश्च महारथः॥
पदविभागः
अत्र शूराः महेष्वासाः भीमार्जुनसमाः युधि। युयुधानः विराटः च द्रुपदः च महारथः॥
सन्धिः
- शूराः + महेष्वासाः + भीमार्जुनसमाः + युधि (विसर्गसन्धिः लोपः)
- युयुधानः + विराटः (विसर्गसन्धिः उकारः + गुणसन्धिः)
- विराटः + च (विसर्गसन्धिः सकारः + श्चुत्वसन्धिः)
- द्रुपदः + च (विसर्गसन्धिः सकारः + श्चुत्वसन्धिः)
अन्वयः
वाक्यविश्लेषणम्
| क्रियापदम् | कः, के? (प्रथमाविभक्तिः) | कुत्र? (सप्तमीविभक्तिः) | अव्ययम् |
| (सन्ति) | भीमार्जुनसमाः महेष्वासाः शूराः | अत्र, युधि | – |
| (अस्ति) | युयुधानः, विराटः, महारथः द्रुपदः | – | च, च |
अन्वयरचना
क्रियापदम् – सन्ति (अध्याहारः)
के सन्ति? – महेष्वासाः
कीदृशाः शूराः? – शूराः
पुनः कीदृशाः शूराः? – भीमार्जुनसमाः
क्रियापदम् – अस्ति (अध्याहारः)
कः अस्ति? – युयुधानः
पुनः कः अस्ति? – विराटः च
पुनः कः अस्ति? – द्रुपदः च
कीदृशः द्रुपदः? – महारथः
तात्पर्यम्
अस्मिन् श्लोके दुर्योधनस्य सम्भाषणं द्रोणेन सह प्रवर्तते – अत्र युद्धे पाण्डवानां सैन्ये बहवः उत्तमाः धनुर्धराः सन्ति। ते भीमः अर्जुनः च इव महान्तः योधारः। युयुधानः विराटः महारथः द्रुपदः च अपि सन्ति तेषां सैन्ये। इति।
In this shloka, duryodhanaḥ’s conversation with droṇaḥ continues – For the upcoming battle, their army has many distinguished archers who are equal in might to bhīmaḥ1 and arjunaḥ. Mighty warriors like yuyudhānaḥ, virāṭaḥ, and the great chariot-warrior drupadaḥ, stand to fight beside them.
- पाण्डवेषु युधिष्ठिरात् परम भीमः द्वितीयः ज्येष्ठः। सः अत्यन्तं बलवान्। bhīmaḥ was the second eldest of the pāṇḍavas after yudhiṣṭhiraḥ, known for his incredible physical strength. ↩︎



Leave a Reply