व्यसनानन्तरं सौख्यं स्वल्पमप्यधिकं भवेत्।
काषायरसमासाद्य स्वाद्वतीवाम्बु विन्दते॥
पदविभागः
व्यसनानन्तरम् सौख्यम् स्वल्पम् अपि अधिकम् भवेत्। काषायरसम् आसाद्य स्वादु अतीव अम्बु विन्दते॥
सन्धिः
- व्यसनानन्तरम् + सौख्यम् + स्वल्पम् (अनुस्वारसन्धिः)
- अपि + अधिकम् (यण्सन्धिः)
- स्वादु + अतीव (यण्सन्धिः)
- अतीव + अम्बु (सवर्णदीर्घसन्धिः)
अन्वयः
स्वल्पम् अपि सौख्यम् व्यसनानन्तरम् अधिकम् भवेत्। काषायरसम् आसाद्य अतीव स्वादु अम्बु विन्दते।
अन्वयार्थः
स्वल्पम् अपि सौख्यम् – even a little happiness, व्यसनानन्तरम् – after something tough or difficult (misery), अधिकम् भवेत् – is a lot, काषायरसम् आसाद्य – after the astringent taste, अतीव स्वादु अम्बु विन्दते – water is found to be extremely sweet
तात्पर्यम्
विपत्कालात् परं यद्यपि स्वल्पं सौख्यं लभेत तथापि तद् अधिकम् इव दृश्यते। दृष्टान्तम् अपि दत्तं श्लोकेन – काषायरसः सामान्यतया बहुभ्यः न रोचते। अपि च तस्याः रुचेः बहवः जनाः आम्लकं न खादितुम् इच्छन्ति। किन्तु यदा कश्चित् आम्लकस्य काषायरसम् आस्वाद्य जलं पिबति तदा जले मधुररुचिः अधिका भवेत्। तथैव जीवने अपि – विपत्तीनाम् अन्तः भवति एव। तासाम् अनन्तरम् मधुरं सुखम् प्रत्यागमिष्यति इति एतस्य श्लोकस्य तात्पर्यम्।
After going through something difficult, even though one may get a little joy here and there, that will seem like a lot. The ślokaḥ gives an analogy – normally, many people aren’t fond of the astringent taste. And because of this, many don’t like eating the Indian gooseberry (commonly known as āmlā1) either. But, when someone does eat this fruit and then drinks water, one may find the latter tastes really sweet. So is the case in life – all miseries come to an end and what follows is sweet happiness anew. That’s the point of this ślokaḥ.
- āmlā is practically synonymous with the astringent taste in the Indian subcontinent ↩︎




Leave a Reply