आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः।
अतीते कार्यशेषज्ञो विपदा नाभिभूयते॥
पदविभागः
आयत्याम् गुणदोषज्ञः तदात्वे क्षिप्रनिश्चयः। अतीते कार्यशेषज्ञः विपदा न अभिभूयते॥
सन्धिः
- आयत्याम् + गुणदोषज्ञः (अनुस्वारसन्धिः)
- गुणदोषज्ञः + तदात्वे (विसर्गसन्धिः सकारः + श्चुत्वसन्धिः)
- कार्यशेषज्ञः + विपदा (विसर्गसन्धिः उकारः + गुणसन्धिः)
- न + अभिभूयते (सवर्णदीर्घसन्धिः)
अन्वयः
आयत्याम् गुणदोषज्ञः तदात्वे क्षिप्रनिश्चयः अतीते कार्यशेषज्ञः विपदा न अभिभूयते।
अन्वयार्थः
आयत्याम् गुणदोषज्ञः – one who knows the good and bad consequences of a future action, तदात्वे क्षिप्रनिश्चयः – one who can take quick decisions in the present, अतीते कार्यशेषज्ञः – one who knows what is remaining of past tasks, विपदा न अभिभूयते – will never be affected by calamity
तात्पर्यम्
यः विद्यावान् मानवः भविष्यत्कालस्य कार्येषु गुणदोषान् जानाति, वर्तमानकालस्य कार्येषु शीघ्रं (उत्तमं च) निर्णयं स्वीकर्तुम् अर्हति, भूतकालस्य कार्येषु शेषान् अंशान् च जानाति, सः कदापि विपत्तिं न अनुभवति। इति तात्पर्यम्।
A wise person who knows the good and bad consequences of future actions, who can make quick (yet effective) decisions in the present, and knows how much is left over from past tasks – calamity never befalls that person.




Leave a Reply