Arjuna bowing with folded hands to Krishna standing beside a golden chariot on a battlefield at sunset

श्रीमद्भगवद्गीता प्रथमोऽध्यायस्य अन्वयरचनाक्रमः – ४ श्लोकः । Shloka Analysis Verse 4

Written by:

धृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान्।

पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः॥

पदविभागः

धृष्टकेतुः चेकितानः काशीराजः च वीर्यवान्। पुरुजित् कुन्तिभोजः च शैब्यः च नरपुङ्गवः॥

सन्धिः

  • धृष्टकेतुः + चेकितानः, काशीराजः + च, कुन्तिभोजः + च, शैब्यः + च (विसर्गसन्धिः सकारः + श्चुत्वसन्धिः)

अन्वयः

वाक्यविश्लेषणम्

क्रियापदम्कः, के? (प्रथमाविभक्तिः)अव्ययम्
(अस्ति)धृष्टकेतुः, चेकितानः, वीर्यवान् काशीराजः, पुरुजित्, कुन्तिभोजः, नरपुङ्गवः शैब्यःच, च, च, च

अन्वयरचना

क्रियापदम् – अस्ति (अध्याहारः)

कः अस्ति? – धृष्टकेतुः

पुनः कः अस्ति? – चेकितानः

पुनः कः अस्ति? – काशीराजः

कीदृशः काशीराजः? वीर्यवान्

पुनः कः अस्ति? – पुरुजित्

पुनः कः अस्ति? – कुन्तिभोजः

पुनः कः अस्ति? – शैब्यः

कीदृशः शैब्यः? नरपुङ्गवः

तात्पर्यम्

अस्मिन् श्लोके अपि दुर्योधनस्य पाण्डवानां सैन्ये के के महावीराः सन्ति इति विवरणं प्रवर्तते – धृष्टकेतुः1, चेकितानः2, वीर्यवान् काशीराजः3 च सन्ति। तावद् अपि न, पुरुजित्4, कुन्तिभोजः, शैब्यः5 च अपि सन्ति। इति।

In this shloka, duryodhanaḥ’s enumeration of the great warriors in the pāṇḍavaḥ camp continues – dhṛṣṭaketuḥ, cekitānaḥ and the brave kāśīrājaḥ are among them. Not only that, more exceptional warriors like purujit, kuntibhojaḥ, and the bull among men, śaibyaḥ, also stand beside them.

  1. द्रुपदस्य पौत्रः। ↩︎
  2. वृष्णीषु कश्चन महान् धनुर्धरः। ↩︎
  3. काशीप्रदेशस्य महाराजः। ↩︎
  4. कुन्तिभोजस्य पुत्रः। कुन्त्याः सहोदरश्च। ↩︎
  5. शिबेः अपत्यम्। सोऽपि महान् धनुर्धरः। ↩︎

Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe to get the latest posts sent to your email.

Leave a Reply

Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe now to keep reading and get access to the full archive.

Continue reading