Arjuna bowing with folded hands to Krishna standing beside a golden chariot on a battlefield at sunset

श्रीमद्भगवद्गीता प्रथमोऽध्यायस्य अन्वयरचनाक्रमः – ५ श्लोकः । Shloka Analysis Verse 5

Written by:

युधामन्युश्च विक्रान्तः उत्तमौजाश्च वीर्यवान्।

सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥

पदविभागः

युधामन्युः च विक्रान्तः उत्तमौजाः च वीर्यवान्। सौभद्रः द्रौपदेयाः च सर्वे एव महारथाः॥

सन्धिः

  • युधामन्युः + च, उत्तमौजाः + च, द्रौपदेयाः + च (विसर्गसन्धिः सकारः + श्चुत्वसन्धिः)
  • सौभद्रः + द्रौपदेयाः (विसर्गसन्धिः उकारः + गुणसन्धिः)
  • सर्वे + एव (यान्तवान्तादेशसन्धिः यकारलोपः)

अन्वयः

वाक्यविश्लेषणम्

क्रियापदम्कः, के? (प्रथमाविभक्तिः)अव्ययम्
(अस्ति)युधामन्युः, विक्रान्तः, वीर्यवान् उत्तमौजाः, सौभद्रःच, च, च
(सन्ति)सर्वे द्रौपदेयाः महारथाःएव

अन्वयरचना

क्रियापदम् – अस्ति (अध्याहारः)

कः अस्ति? – युधामन्युः

कीदृशः युधामन्युः? – विक्रान्तः

पुनः कः अस्ति? – उत्तमौजाः

कीदृशः उत्तमौजाः? – वीर्यवान्

पुनः कः अस्ति? – सौभद्रः

क्रियापदम् – सन्ति (अध्याहारः)

के सन्ति? – द्रौपदेयाः

कीदृशाः द्रौपदेयाः? – सर्वे

पुनः कीदृशाः द्रौपदेयाः? महारथाः

तात्पर्यम्

अस्मिन् श्लोके दुर्योधनस्य विवरणं इतोऽपि प्रवर्तते – युधामन्युः1, विक्रान्तः2, वीर्यवान् उत्तमौजाः3 च सन्ति पाण्डुपुत्राणां सैन्ये। सौभद्रः4, महारथाः द्रौपदेयाः5 अपि तैः सह तिष्ठन्ति। इति।

In this shloka, duryodhanaḥ’s enumeration continues still – the one of great prowess, yudhāmanyuḥ, and the courageous uttamaujāḥ are among those warriors in the pāṇḍavaḥ army as well. saubhadraḥ, and the great warriors draupadeyāḥ (the sons of draupadī) also stand beside them to fight.

  1. युधामन्युः पाञ्चालप्रदेशस्य राजपुत्रः आसीत्। ↩︎
  2. सुधृतेः पिता दमस्य च पुत्रः। कश्चन राजा अपि। ↩︎
  3. युधामन्योः भ्राता। ↩︎
  4. अर्जुनस्य सुभद्रायाः च पुत्रः अभिमन्युः। ↩︎
  5. पाण्डवैः द्रौपद्यां पञ्च पुत्राः – प्रतिविन्ध्यः, सुतसोमः, श्रुतकर्मा, श्रुतवीर्यः, शतानीकः च। ↩︎

Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe to get the latest posts sent to your email.

Leave a Reply

Discover more from सा संस्कृतजालवृत्तिः। That Samskritam Blog

Subscribe now to keep reading and get access to the full archive.

Continue reading