अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥
पदविभागः
अन्ये च बहवः शूराः मदर्थे त्यक्तजीविताः। नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥
सन्धिः
- शूराः + मदर्थे (विसर्गसन्धिः लोपः)
अन्वयः
वाक्यविश्लेषणम्
| क्रियापदम् | कः, के? (प्रथमाविभक्तिः) | कस्मिन्? (सप्तमीविभक्तिः) | अव्ययम् |
| (सन्ति) | अन्ये बहवः शूराः त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः (योधाः) | मदर्थे | च |
अन्वयरचना
क्रियापदम् – सन्ति (अध्याहारः)
के सन्ति? – योधाः (अध्याहारः)
कीदृशाः योधाः? – अन्ये
पुनः कीदृशाः योधाः? – बहवः
पुनः कीदृशाः योधाः? – शूराः
पुनः कीदृशाः योधाः? – त्यक्तजीविताः
कस्य अर्थे त्यक्तजीविताः? मदर्थे
पुनः कीदृशाः योधाः? – नानाशस्त्रप्रहरणाः
पुनः कीदृशाः योधाः? – सर्वे
पुनः कीदृशाः योधाः? – युद्धविशारदाः
तात्पर्यम्
पूर्वस्मिन् श्लोके दुर्योधनः स्वसैन्ये कांश्चन शूरान् योद्धॄन् वर्णितवान्। द्रोणभीष्मादयः वीराः तस्य आवल्याम् आसन्। अस्मिन् श्लोके दुर्योधनः वदति यत् तस्य सैन्ये इतोऽपि बहवः सुप्रसिद्धाः शस्त्रनिपुणाः शूराः च योधाः सन्ति ये तस्य कृते स्वप्राणान् त्यक्तुम् उद्यताः सन्ति इति।
In the prior shloka, duryodhanaḥ detailed the many great warriors in his army. His list included droṇaḥ, bhīṣmaḥ and others. Now, in this shloka, duryodhanaḥ goes on to say that there are even more mighty warriors who are skilled in various martial arts and weaponry, and who are well-known in the kingdom for their prowess. What’s more, these warriors are ready to give their lives up for duryodhanaḥ as well!

Leave a Reply