अयनेषु च सर्वेषु यथाभागमवस्थिताः।
भीष्ममेवाभिरक्षन्तु भवन्तस्सर्व एव हि॥
पदविभागः
अयनेषु च सर्वेषु यथाभागम् अवस्थिताः। भीष्मम् एव अभिरक्षन्तु भवन्तः सर्वे एव हि॥
सन्धिः
- एव + अभिरक्षन्तु (सवर्णदीर्घसन्धिः)
- भवन्तः + सर्वे (विसर्गसन्धिः सकारः)
- सर्वे + एव (यान्तवान्तादेशसन्धिः यकारलोपः)
अन्वयः
वाक्यविश्लेषणम्
| क्रियापदम् | कः, के? (प्रथमाविभक्तिः) | कम्, कान्? (द्वितीयाविभक्तिः) | कस्मिन्, केषु? (सप्तमीविभक्तिः) | अव्ययम् |
| अभिरक्षन्तु | सर्वे अवस्थिताः भवन्तः | भीष्मम् | सर्वेषु अयनेषु | यथाभागम्, च, एव, एव, हि |
अन्वयरचना
क्रियापदम् – अभिरक्षन्तु
के अभिरक्षन्तु? – सर्वे भवन्तः एव हि
कम् अभिरक्षन्तु? – भीष्मम् एव
कथम्भूताः अभिरक्षन्तु? – यथाभागम् अवस्थिताः
केषु अवस्थिताः? – अयनेषु च
कीदृशेषु अयनेषु? – सर्वेषु
तात्पर्यम्
पूर्वस्मिन् श्लोके दुर्योधनः सेनयोः तुलनां कृत्वा भीष्मेन तस्य सेनायाः सुरक्षा भवति इति कथितवान्। एतस्मिन् श्लोके सः वीरान् आज्ञापयति – सर्वे वीराः! स्व स्व भागान् गृहीत्वा सर्वेषु मार्गेषु भीष्मम् एव रक्षन्तु। इति। अधुना युद्धाय दुर्योधनः सज्जः अस्ति।
In the prior ślokaḥ, duryodhanaḥ compared the two armies and mentioned that his army’s main protector is bhīṣmaḥ. So, in this ślokaḥ, he commands – All warriors! Take your respective positions and protect bhīṣmaḥ, staying close to him in all the areas of the battlefield. Now, duryodhanaḥ is ready for war.

Leave a Reply