ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः॥
पदविभागः
ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ। माधवः पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः॥
सन्धिः
- श्वेतैः + हयैः + युक्ते (विसर्गसन्धिः रेफः)
- पाण्डवः + च (विसर्गसन्धिः सकारः + श्चुत्वसन्धिः)
- च + एव (वृद्धिसन्धिः)
अन्वयः
वाक्यविश्लेषणम्
| क्रियापदम् | कः, कौ, के? (प्रथमाविभक्तिः) | कम्, कौ, कान्? (द्वितीयाविभक्तिः) | केन, कैः (तृतीयाविभक्तिः) | कुत्र, कस्मिन्, केषु? (सप्तमीविभक्तिः) | अव्ययम् |
| स्थितौ (क्तान्तम्) | (माधवः, पाण्डवः (अर्जुनः)) | – | श्वेतैः हयैः | युक्ते महति स्यन्दने | ततः |
| प्रदध्मतुः | माधवः, पाण्डवः (अर्जुनः) | दिव्यौ शङ्खौ | – | – | च, एव |
अन्वयरचना
क्रियापदम् – प्रदध्मतुः
कौ प्रदध्मतुः? – माधवः पाण्डवः (अर्जुनः) च एव
कौ माधवः पाण्डवः च एव प्रदध्मतुः? – शङ्खौ
कीदृशौ शङ्खौ? – दिव्यौ
कथम्भूतौ प्रदध्मतुः? – स्थितौ
कुत्र स्थितौ? – स्यन्दने
कीदृशे स्यन्दने? – महति
पुनः कीदृशे स्यन्दने? – युक्ते
कैः युक्ते? – हयैः
कीदृशैः हयैः? – श्वेतैः
कदा प्रदध्मतुः? – ततः
तात्पर्यम्
पूर्वस्मिन् श्लोके भीष्मः उच्चैः सिंहः इव गर्जयित्वा स्वशङ्खं ध्मातवान्। अस्मिन् श्लोके पाण्डवानां पक्षतः भगवान् व्यासः विवृणोति। यदा भीष्मेन ननादः कृतः तदा यः श्वेतैः हयैः युक्तः रथः आसीत् तस्मिन् श्रीकृष्णः अर्जुनः च स्थितौ। अन्ते ननादे श्रुते द्वौ स्व स्व शङ्खौ धमतः। एतस्य अर्थः – द्वयोः सेनयोः मध्ये युद्धम् आरप्स्यते इति।
In the prior ślokaḥ, bhīṣmaḥ let out a lion’s roar and blew his conch to signal he was ready for war. In this ślokaḥ, bhagavān vyāsaḥ describes what happens from the pāṇḍavaḥ camp. When bhīṣmaḥ roared, śrīkṛṣṇaḥ and arjunaḥ were seated in their chariot, which was fastened to white horses. Finally, on hearing the loud signal from bhīṣmaḥ, the two sound their own conch shells in return. What this means is both sides are ready for war.

Leave a Reply