येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च॥
पदविभागः
येषाम् अर्थे काङ्क्षितम् नः राज्यम् भोगाः सुखानि च। ते इमे अवस्थिताः युद्धे प्राणान् त्यक्तवा धनानि च॥
सन्धिः
- नः + राज्यम् (विसर्गसन्धिः उकारः + गुणसन्धिः)
- ते इमे (यान्तवान्तादेशसन्धिः यकारलोपः)
- इमे अवस्थिताः (पूर्वरूपसन्धिः)
- अवस्थिताः युद्धे (विसर्गसन्धिः लोपः)
- प्राणान् त्यक्तवा (नश्छव्यप्रशान् ८.३.७ पा.सू.)
अन्वयः
वाक्यविश्लेषणम्
| क्रियापदम् | किम्, कानि, कः, के? | किम्, कानि, कम्, कान्? | केन, कैः? | कस्मै, केभ्यः? | कस्मिन्, कुत्र? | अव्ययम् |
| काङ्क्षितम् (अस्ति/सन्ति) | राज्यम् भोगाः सुखानि | – | – | नः | येषाम् अर्थे | च |
| अवस्थिताः (सन्ति) | ते इमे | – | – | – | युद्धे | – |
| त्यक्त्वा (क्त्वान्तः) | (ते इमे) | प्राणान् धनानि | – | – | – | च |
अन्वयरचना
क्रियापदम् – काङ्क्षितम् (अस्ति/सन्ति)
किं काङ्क्षितम् अस्ति? – राज्यम्
पुनः के काङ्क्षिताः सन्ति? – भोगाः
पुनः कानि काङ्क्षितानि सन्ति? – सुखानि च
कस्मिन् (किं निमित्तं) काङ्क्षितम् अस्ति? – अर्थे
केषाम् अर्थे? येषाम्
क्रियापदम् – अवस्थिताः (सन्ति)
के अवस्थिताः सन्ति? – ते इमे
कुत्र अवस्थिताः सन्ति? – युद्धे
किं कृत्वा अवस्थिताः सन्ति? त्यक्त्वा
कान् त्यक्त्वा? प्राणान्
पुनः कानि च त्यक्त्वा? धनानि च
तात्पर्यम्
पूर्वम् अर्जुनः – स्वजनान् एव हन्मि चेत् विजयेन राज्येन भोगैः च किं प्रयोजनम्? इति पृष्टवान्। एतस्मिन् श्लोके सः तस्मिन्नेव विषये अनुवर्तते। अर्जुनः स्वजनैः सह एव राज्यं, भोगान्, सुखानि च यापयितुम् इष्टवान्। किन्तु यैः सह एवं कर्तुम् इच्छुकः सः तान् एव युद्धभूमौ अधुना पश्यति। ते सर्वे स्व स्व धनं व्ययीकृत्य दुर्योधनाय प्राणान् अपि त्यक्तुम् उद्यताः। अतः तान् दृष्ट्वा अर्जुने विषादः प्रवर्तते।
Prior to this, Arjuna had asked – If I kill my own people then what’s the point of victory, nation and all the pleasures that come with this? In this shloka, Arjuna continues on the same subject. Arjuna wanted to enjoy kingdom and sensual pleasures with his kinsmen. But, the very people whom he wants to share this with are now standing before him in the battlefield. They all have spent a lot of money and are also prepared to give their lives up for Duryodhana. So, seeing them in this way, Arjuna’s melancholy grows.

Leave a Reply