न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा॥
पदविभागः
न काङ्क्षे विजयम् कृष्ण न च राज्यम् सुखानि च। किम् नः राज्येन गोविन्द किम् भोगैः जीवितेन वा॥
सन्धिः
- नः + राज्येन (विसर्गसन्धिः उकारः + गुणसन्धिः)
- भोगैः + जीवितेन (विसर्गसन्धिः रेफः)
अन्वयः
वाक्यविश्लेषणम्
| क्रियापदम् | सम्बोधनम् | कः, किम्? | किम्, कानि, कम्, कान्? | केन, कैः? | कस्मै, केभ्यः? | अव्ययम् |
| काङ्क्षे | कृष्ण! | (अहम्) | विजयम् | – | – | न |
| (काङ्क्षे) | – | (अहम्) | राज्यम् सुखानि | – | – | न, च, च |
| (अस्ति) | गोविन्द! | किम् (प्रयोजनम्) | – | राज्येन | नः | – |
| (अस्ति) | – | किम् (प्रयोजनम्) | – | भोगैः जीवितेन | – | वा |
अन्वयरचना
कृष्ण!
क्रियापदम् – न काङ्क्षे
कः न काङ्क्षे? – (अहम्)
कं न काङ्क्षे? – विजयम्
क्रियापदम् – न (काङ्क्षे)
कः न काङ्क्षे? – (अहम्)
किं न काङ्क्षे? – राज्यम्
पुनः कानि च न काङ्क्षे? – सुखानि च
गोविन्द!
क्रियापदम् – (अस्ति)
किम् अस्ति? – प्रयोजनम्
कीदृशं प्रयोजनम्? – किम्
केन किं प्रयोजनम्? – राज्येन
केभ्यः किं प्रयोजनम्? – नः
क्रियापदम् – (अस्ति)
किम् अस्ति? – प्रयोजनम्
कीदृशं प्रयोजनम्? – किम्
कैः किं प्रयोजनम्? – भोगैः
पुनः केन वा किं प्रयोजनम्? – जीवितेन
तात्पर्यम्
पूर्वस्मिन् श्लोके अर्जुनः पापकर्मविषये चिन्तयित्वा श्रीभगवन्तं विपरीतानि निमित्तानि इति च निवेदितवान्। एतस्मिन् श्लोके सः कांश्चन गभीरान् प्रश्नान् पृच्छति। तस्य अभिप्राये स्वजनैः सह मिलित्वा जीवनम् एव सुखमयं भवति। यदि सः स्वजनान् एव हन्ति तर्हि विजयेन राज्येन भोगैः च किं प्रयोजनम्? इत्यतः एव पृच्छति।
In the prior shloka, Arjuna thought about the sinful deeds he will have to commit in this war and told Shri Krishna that he is seeing only bad signs or omens to this war. In short, nothing good will come of it, according to Arjuna. In this shloka, he has some serious questions. In his opinion, a life lived together with one’s kin is the happiest. So he questions – If he is to kill his own family members, then what is the point of his victory over the kingdom and the subsequent pleasures?

Leave a Reply