निमित्तानि च पश्यामि विपरीतानि केशव।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे॥
एतस्य अन्वयम् अर्थं च पश्यामः। अन्वयक्रमे केचन स्तराः सन्ति। तेषां स्तराणाम् नामानि अधो निर्दिष्टानि।
- पदविभागः – अत्र प्रतिपदस्य विभजनम् भवति।
- सन्धिविवरणम् अपि पश्यामः।
- अन्वयः
- वाक्यविश्लेषणम् – अत्र वाक्यस्य विवरणम् भवति।
- अन्वयरचना – अन्वयस्य रचनां पश्यामः।
- अन्वयार्थः – अनन्तरम् वाक्यस्य अर्थं जानीमः।
- तात्पर्यम् – अन्ते, श्लोकस्य मूलं तात्पर्यम् अथवा आशयं प्राप्नुमः।
अधुना एकैकं स्तरं गत्वा एतस्य श्लोकस्य मूलम् अर्थं पश्यामः।
पदविभागः
निमित्तानि च पश्यामि विपरीतानि केशव। न च श्रेयः अनुपश्यामि हत्वा स्वजनम् आवहे॥
सन्धिः
- श्रेयः + अनुपश्यामि (विसर्गसन्धिः उकारः + गुणसन्धिः)
अन्वयः
वाक्यविश्लेषणम्
| क्रियापदम् | किम्, कानि, कः, के? | किम्, कानि, कम्, कान्? | कया, काभिः? | कस्मै, केभ्यः? | कस्मात्, केभ्यः? | कुत्र, कस्मिन्, केषु? | अव्ययम् |
| पश्यामि | (अहम्) | विपरीतानि निमित्तानि | – | – | – | – | च |
| हत्वा | – | स्वजनम् | – | – | – | आहवे | – |
| अनुपश्यामि | – | श्रेयः | – | – | – | – | न, च |
अन्वयरचना
केशव!
क्रियापदम् – पश्यामि
कः पश्यति? – (अहम्) पश्यामि (अध्याहारः)
कानि च पश्यामि? – निमित्तानि च
कीदृशानि निमित्तानि? – विपरीतानि
क्रियापदम् – अनुपश्यामि
किम् च न अनुपश्यामि? – श्रेयः
किम् कृत्वा न अनुपश्यामि? – हत्वा
कम् हत्वा? – स्वजनम्
कुत्र हत्वा? – आहवे
तात्पर्यम्
पूर्वं विषादभावेन अर्जुनस्य शरीराङ्गानि सीदितवन्तः। तस्य मुखम् अपि शुष्कम् अभवत्। एतस्मिन् श्लोके अर्जुनः पापकर्मणि चिन्तयति। सः श्रीभगवन्तम् निवेदयति च – विपरीतानि निमित्तानि च पश्यामि इत्युक्ते एतस्मिन् युद्धे असम्यक् शकुनाः सन्ति इति। सः पापस्य चिन्हानि लक्षयति। अतः यद्यपि सः कुरुक्षेत्रं योद्धुम् आगतवान् तथापि अधुना तस्य अन्तरङ्गे विपरीतं चिन्तनम् भवति। तस्मात् सः वदति किमपि श्रेयः न भवति स्वबन्धुहत्यया युद्धे इति।
In the prior shloka, Arjuna’s limbs sunk down due to his despondency on the battlefield. His mouth was also parched due to his depressed mental state. In this shloka, Arjuna thinks about the consequences of the heinous acts he will have to commit. He tells Shri Krishna as well – Keshava, I am seeing bad omens in this battle (denoted by विपरीतानि निमित्तानि, viparītāni nimittāni). He starts noticing signs of sinful deeds in the upcoming battle. So, even though he went to Kurukshetra seeking to fight, now his mind is filled with opposite thoughts or sentiments. This is why he ends this verse saying, “Nothing good comes of killing one’s own kin in a war.”

Leave a Reply